संस्कृतेन किञ्चिल्लिखितं मया लीलया ॥

Jul 16, 2015 02:35



नैकदा गन्तव्यमस्माभिः संस्कृतभाषाविवर्जितं देशम् । यदि तु न भवेयुस्तद्विद्वांसोऽस्मत्समीपे धावितुमर्हामो ऽन्तर्जाले मुखपुस्तके यस्मिन्पण्डितजनाः क्रीडन्ति संभाषणाणि च कुर्वन्ति परस्परमिति यावत् ॥ तस्माद्भाषेम संस्कृतेन केवलं न म्लेच्छितवै नापभाषितवायिति यथापतञ्जलि ॥ एतद्भवेदिति शिवम् ॥ अधिकं च वक्तव्यं श्रेष्ठतमा भाषा संस्कृतमिति यदि गुह्यां वाणीं प्रयोक्तुमिच्छमो रूषदेशे यदा यदा रूषराष्ट्रीयनीतिविषयेषु किंचित्सम्भाषणं चिकीर्षामो मित्रैर्गुप्तचराणां प्रत्यक्षतः ॥ यतो बहवो जनास्तस्मिन्देशे संमूढा अतीव अहिंसायां च न जीवितुं शक्नुवन्ति नेच्छन्त्यपि ॥ शोकपीडितोऽहं तद्धेतोः ॥



санскрит, тексты на санскрите, размышления, приколы

Previous post Next post
Up